वांछित मन्त्र चुनें

त्वमि॑न्द्र॒ नर्यो॒ याँ अवो॒ नॄन्तिष्ठा॒ वात॑स्य सु॒युजो॒ वहि॑ष्ठान्। यं ते॑ का॒व्य उ॒शना॑ म॒न्दिनं॒ दाद्वृ॑त्र॒हणं॒ पार्यं॑ ततक्ष॒ वज्र॑म् ॥

अंग्रेज़ी लिप्यंतरण

tvam indra naryo yām̐ avo nṝn tiṣṭhā vātasya suyujo vahiṣṭhān | yaṁ te kāvya uśanā mandinaṁ dād vṛtrahaṇam pāryaṁ tatakṣa vajram ||

मन्त्र उच्चारण
पद पाठ

त्वम्। इ॒न्द्र॒। नर्यः॑। यान्। अवः॑। नॄन्। तिष्ठ॑। वात॑स्य। सु॒ऽयुजः॒। वहि॑ष्ठान्। यम्। ते॒। का॒व्यः। उ॒शना॑। म॒न्दिन॑म्। दात्। वृ॒त्र॒ऽहन॑म्। पार्य॑म्। त॒त॒क्ष॒। वज्र॑म् ॥ १.१२१.१२

ऋग्वेद » मण्डल:1» सूक्त:121» मन्त्र:12 | अष्टक:1» अध्याय:8» वर्ग:26» मन्त्र:2 | मण्डल:1» अनुवाक:18» मन्त्र:12


बार पढ़ा गया

स्वामी दयानन्द सरस्वती

फिर उसी विषय को अगले मन्त्र में कहा है ।

पदार्थान्वयभाषाः - हे (इन्द्र) प्रजा पालनेहारे (काव्यः) धीर उत्तम बुद्धिमान् के पुत्र (उशना) धर्म की कामना करनेहारे (नर्य्यः) मनुष्यों में साधु श्रेष्ठ हुए जन ! (त्वम्) आप (यान्) जिन (वहिष्ठान्) अतीव विद्या धर्म की प्राप्ति करानेहारे (वातस्य) प्राण के बीच योगाभ्यास से (सुयुजः) अच्छे युक्त योगी (नॄन्) धार्मिक जनों की (अवः) रक्षा करते हो उनके साथ धर्म के बीच (तिष्ठ) स्थिर होओ, जो (ते) आपके लिये (यम्) जिस (वृत्रहणम्) शत्रुओं के मारनेवाले वीर (मन्दिनम्) प्रशंसा के योग्य (पार्य्यम्) जिससे पूर्ण काम बने उस मनुष्य को (दात्) देवे वा जो शत्रुओं पर (वज्रम्) अति तेज शस्त्र और अस्त्रों को (ततक्ष) फेंके, उस-उसके साथ भी धर्म से वर्त्तो ॥ १२ ॥
भावार्थभाषाः - जैसे राजपुरुष परमेश्वर की उपासना करने, पढ़ने और उपदेश करनेवाले तथा और उत्तम व्यवहारों में स्थिर प्रजा और सेनाजनों की रक्षा करें, वैसे वे भी उनकी निरन्तर रक्षा किया करें ॥ १२ ॥
बार पढ़ा गया

स्वामी दयानन्द सरस्वती

पुनस्तमेव विषयमाह ।

अन्वय:

हे इन्द्र काव्य उशना नर्यस्त्वं यान् वहिष्ठान् वातस्य सुयुजो नॄनवस्तैः सह धर्मे तिष्ठ यस्ते यं वृत्रहणं मन्दिनं पार्यं जनं दात् यः शत्रूणामुपरि वज्रं ततक्ष तेनापि सह धर्मेण वर्त्तस्व ॥ १२ ॥

पदार्थान्वयभाषाः - (त्वम्) (इन्द्र) प्रजापालक (नर्य्यः) नृषु साधुः सन् (यान्) (अवः) रक्षेः (नॄन्) धार्मिकान् जनान् (तिष्ठ) धर्मे वर्त्तस्व। अत्र द्व्यचोऽतस्तिङ इति दीर्घः। (वातस्य) प्राणस्य मध्ये योगाभ्यासेन (सुयुजः) सुष्ठुयुक्तान् योगिनः (वहिष्ठान्) अतिशयेन वोढॄन् विद्याधर्मप्रापकान् (यम्) (ते) तुभ्यम् (काव्यः) कवेर्मेधाविनः पुत्रः (उशना) धर्मकामुकः। अत्र डादेशः। (मन्दिनम्) स्तुत्यं जनम् (दात्) दद्यात् (वृत्रहणम्) शत्रुहन्तारं वीरम् (पार्य्यम्) पार्य्यते समाप्यते कर्म येन तम् (ततक्ष) प्रक्षिपेत् (वज्रम्) शस्त्रास्त्रसमूहम् ॥ १२ ॥
भावार्थभाषाः - यथा राजपुरुषाः परमेश्वरोपासकानध्यापकोपदेशकानन्योत्तमव्यवहारस्थान् प्रजासेनाजनान् रक्षेयुस्तथैवैतानेतेऽपि सततं रक्षेयुः ॥ १२ ॥
बार पढ़ा गया

माता सविता जोशी

(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)
भावार्थभाषाः - जसे राजपुरुष परमेश्वराची उपासना करणाऱ्याचे, अध्ययन करणाऱ्याचे, उपासना करणाऱ्याचे व उत्तम व्यवहारात स्थिर प्रजेचे व सेनेचे रक्षण करतात. तसेच त्यांनीही त्यांचे निरंतर रक्षण करावे. ॥ १२ ॥